||Sundarakanda ||

|| Sarga 46||( Only Slokas in Devanagari) )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुन्दरकांड.
अथ षट्चत्त्वारिंशस्सर्गः॥

हतान् मंत्रिसुतान् बुद्ध्वा वानरेण महात्मना।
रावणः संवृताकारः चकार मतिमुत्तमाम्॥1||

स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् ।
प्रघसं भासकर्णं च पंच सेनाग्र नायकान्॥2||

संदिदेश दशग्रीवो वीरान्नयविशारदान् ।
हनुमद्ग्रहणा व्यग्रान् वायुवेगसमान्युधि॥3||

यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः।
सवाजिरथमातंगाः स कपिः शास्यतामिति॥4||

यतैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम्।
कर्म चापि समाधेयं देशकालविरोधिनम्॥5||

न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन्।
सर्वधा तन्महद्भूतं महाबलपरिग्रहम्॥6||

भवेदिंद्रेण वा सृष्टमस्मदर्थं तपोबलात्।
सनागयक्षगंधर्वा देवासुरमहर्षयः॥7||

युष्माभि स्सहितैः सर्वेर्मया सह विनिर्जिताः।
तैरवश्यं विधातव्यं व्यळीकं किंचिदेव नः॥8||

तदेव नात्र संदेहः प्रसह्या परिगृह्यताम्।
नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः॥9||

दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः।
वाली च सह सुग्रीवो जांबवांश्च महाबलः॥10||

नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः।
नैवं तेषां गतिर्भीमान तेजो न पराक्रमः॥11||

नमतिर्न बलोत्साहौ न रूपपरिकल्पनम्।
महत्सत्त्व मिदं ज्ञेयं कपिरूपं व्यवस्थितम्॥12||

प्रयत्नं महदास्थाय क्रियता मस्य निग्रहः।
कामं लोकास्त्रयस्सेंद्राः ससुरासुरमानवाः॥13||

कामं लोकास्त्रयः सैंद्राः ससुरासुरमानवाः ।
भवता मग्रतः स्थातुं न पर्याप्ता रणाजिरे॥
तथापि तु नयज्ञेन जय माकांक्षता रणे॥14||

आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्दिर्हि चंचला।
ते स्वामि वचनं सर्वे प्रतिगुह्य महौजसः॥15||

समुत्पेतुर्महावेगा हुताशसमतेजसः।
रथैर्मत्तैश्च मातंगैर्वाजिभिश्च महाजनैः॥16||

शस्त्रैश्च विविधैः तीक्ष्‍णैः सर्वैश्चोपचिता बलैः।
ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम्॥17||

रस्मिमंतमिवोद्यंतं स्वतेजोरश्मिमालिनम्।
तोरणस्थं महोत्साहं महासत्त्वं महाबलम्॥18||

महामतिं महावेगं महाकायं महाबलम्।
तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः॥19||

तैस्तैः प्रहरणैर्भीमैरभिपेतुः ततस्ततः।
तस्य पंचायसाः तीक्ष्णाः शिताः पीतमुखाः शराः॥20||

शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः।
स तैः पंचभिराविद्धः शरैः शिरसि वानरः॥21||

उत्पपात नदन् व्योम्नि दिशो दश विनादयन्।
ततस्तु दुर्धरो वीरः सरथः सज्यकार्मुकः॥22||

किरण् शतशतैः तीक्ष्‍णैरभिपेदे महाबलः।
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम्॥23||

सृष्टिमंतं पयोदांते पयोदमिव मारुतः।
अर्ध्यमानः ततस्तेन दुर्धरेणानिलात्मजः॥24||

चकार कथनं भूयो व्यवर्थत च वेगवान् ।
सदूरं सहसोत्पत्य दुर्दरस्य रथे हरिः॥25||

निपपात महावेगो विद्युद्राशिर्गिराविव।
ततः स मधिताष्टाश्वं रथं भग्नाक्षकूबरम्॥26||

विहायन्यपतद्भूमौ दुर्धरः त्यक्त जीवितः।
तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि॥27||

संजातरोषौ दुर्दर्षावुत्पेततुररिंदमौ।
स ताभ्यां सहसोत्पत्य विष्ठितो विमलेंबरे॥28||

मुद्गराभ्यां महाबाहुः वक्षस्यभिहितः कपिः।
तयोर्वेगवतोर्वेगं विनिहत्य महाबलः॥29||

निपपात पुनर्भूमौ सुपर्ण समविक्रमः।
स सालवृक्ष मासाद्य त मुत्पाट्य च वानरः॥30||

ता वुभौ राक्षसौ वीरौ जघान पवनात्मजः।
ततः तां स्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना॥31||

अभिपेदे महावेगः प्रसह्या प्रघसो हरिं।
भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान्॥32||

एकतः कपिशार्दूलं यशस्विनमवस्थितम्।
पट्टिसेन शिताग्रेण प्रघसः प्रत्ययोधयत्॥33||

भासकर्णश्च शूलेन राक्षसः कपिसत्तमम्।
स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्थ तनूरुहः॥34||

अभवत् वानरः क्रुद्धो बालसूर्य समप्रभः।
समुत्पाट्य गिरेः शृंगं समृगव्याळपादपम्॥35||

जघान हनुमान्वीरौ राक्षसौ कपिकुंजरः।
ततस्तेष्ववसन्नेषु सेनापतिषु पंचसु॥
बलं च तदवशेषं च नाशयामास वानरः॥।36||

अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान्।
सकपिर्नाशयामास सहस्राक्ष इवासुरान्॥37||

हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः।
हतैश्च राक्षसैर्भूमीरुद्दमार्गा समंततः॥38||

ततः कपिस्तान् ध्वजिनीपतीन् रणे
निहत्य वीरान् सबलान् सवाहनान्।
समीक्ष्य वीरः परिगृह्य तोरणं
कृतक्षणः काल इव प्रजाक्षये॥39||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकांडे षट्चत्त्वारिंशस्सर्गः ॥

|| Om tat sat ||